गतांश से आगे- अध्याय 23 भाग 7
(इस प्रकार संक्षिप्त पुण्याहवाचन विधि सम्पन्न हुयी)
क्रमशः...
पुण्याहवाचन विधि-
(क)बौधायन की संक्षिप्त विधि-यह मूल रुप से पुरोहित-यजमान संवाद-शैली
में है।आचार्य के सम्मुख, अक्षतपुष्पादि हाथों में लेकर सपत्निक यजमान पुण्याहवाचन
की कामना से प्रार्थना करे-
यजमान- ब्राह्मं पुण्यं महर्यच्च
सृष्ट्युत्पादनकारकम्।वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः।। भो
ब्राह्मणाः मम सकुम्बस्य सपरिवारस्य गृहे
.....कर्मणः(रिक्तस्थान में भूमिपूजन/गृहप्रवेश शब्द का उच्चारण करे) पुण्याहं
भवन्तो ब्रुवन्तु।
ब्राह्मण-
ऊँ पुण्याहं,ऊँ पुण्याहं,ऊँ पुण्याहं।
ऊँ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा।।
यजमान- पृथिव्यामुद्धृतायां तु यत्कल्याणं
पुरा कृतम्।
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः।। भो ब्राह्मणाः मम सकुम्बस्य सपरिवारस्य गृहे .....कर्मणः(रिक्तस्थान में भूमिपूजन/गृहप्रवेश शब्द
का उच्चारण करे) कल्याणं
भवन्तो ब्रुवन्तु।
ब्राह्मण- ऊँ कल्याणं,ऊँ कल्याणं,ऊँ कल्याणं।ऊँ
यथेमां वाचं कल्याणीमावदानि जनेभ्यः।ब्रह्मराजन्याभ्याँ् शूद्राय चार्याय च स्वाय
चारणाय च।प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप मादो
नमतु।
यजमान- सागरस्य तु या ऋद्धिर्महालक्ष्यादिभिः
कृता।सम्पूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः।। भो ब्राह्मणाः मम
सकुम्बस्य सपरिवारस्य गृहे ऋद्धिं भवन्तो ब्रुवन्तु।
ब्राह्मण- ऊँ कर्म ऋध्यताम्,ऊँ कर्म
ऋध्यताम्,ऊँ कर्म ऋध्यताम्।ऊँ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम।दिवं
पृथिव्याम् अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः।
यजमान- स्वस्तिस्तु याऽविनाशाख्या
पुण्यकल्याणवृद्धिदा।विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः। भो
ब्राह्मणाः मम सकुम्बस्य सपरिवारस्य गृहे स्वस्तिं भवन्तो ब्रुवन्तु।
ब्राह्मण- ऊँ आयुष्मते स्वस्ति,ऊँ आयुष्मते
स्वस्ति,ऊँ आयुष्मते स्वस्ति।ऊँ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा
विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिरधातु।।
यजमान-
मृकण्डसूनोरायुर्यद्ध्रुवलोमशयोस्तथा।आयुषा तेन संयुक्ता जीवेम शरदः शतम्।।
ब्राह्मण- जीवन्तु भवन्तः,जीवन्तु भवन्तः,जीवन्तु
भवन्तः।ऊँ शतमिन्नु शरदो अन्ति देवा यत्रा नश्र्चक्रा जरसं तनूनाम्।पुत्रासो यत्र
पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः।।
यजमान- समुद्रमथनाज्जाता
जगदानन्दकारिका।हरिप्रिया च माङ्ल्या तां श्रियं च ब्रुवन्तु नः।।शिवगौरीविवाहे तु
या श्रीरामे नृपात्मजे।धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि।।
ब्राह्मण- अस्तु श्रीः,अस्तु श्रीः,अस्तु श्रीः। ऊँ मनसः कामनाकूतिं वाचः सत्यमशीय पशूनाàरुपमन्नस्य रसो यशःश्रीःश्रयतां मयि
स्वाहा।
यजमान- प्रजापतिर्लोकपालो धाता ब्रह्मा च
देवराट्।भगवाञ्छाश्वतो नित्यं स नो रक्षतु सर्वतः।।योऽसौ प्रजापतिः पूर्वे यः करे
पद्मसम्भवः।पद्मा वै सर्वलोकानां तन्नोऽस्तु प्रजायते।।
तत्पश्चात् हाथ में लिया हुआ अक्षतपुष्पादि सामने
छोड़ दे,और बोले- भगवान् प्रजापतिः प्रीयताम्।
ब्राह्मण- ॐ प्रजापते न त्वदेतान्यन्यो विश्वा
रुपाणि परि ता बभूव।यत्कामास्ते जुहुमस्तन्नो अस्त्वयममुष्य पितासावस्य पिता वयँ्
स्याम पतयो रयीणाँ् स्वाहा।। आयुष्मते स्वस्तिमते यजमानाय दाशुषे।
कृताः सर्वाशिषः सन्तु ऋत्विग्भिर्वेदपारगैः।।
या
स्वस्तिर्ब्राह्मणो भूता या च देवे व्यवस्थिता।
धर्मराजस्य या पत्नी स्वस्तिः
शान्तिः सदा तव।।
देवेन्द्रस्य यथा स्वस्तिस्तथा
स्वस्तिर्गुरोर्गृहे।
एकलिंगे यथा स्वस्तिस्तथा स्वस्तिः सदा तव।।
ॐआयुष्मते स्वस्ति,
ॐआयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति।।
ॐ
प्रति पन्थामपद्महि स्वस्तिगामनेहसम्।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु।
पुण्याहवाचनकर्मणः समृद्धिरस्तु।।
(इस प्रकार संक्षिप्त पुण्याहवाचन विधि सम्पन्न हुयी)
क्रमशः...
Comments
Post a Comment