पुण्यार्कवास्तुमंजूषा-173

गतांश से आगे...अध्याय उनतीस,भाग तीन

अब यहाँ , जिज्ञासुओं के अवलोकनार्थ ग्रन्थ का मूलपाठ यथावत प्रस्तुत किया जा रहा है,तत्पश्चात् क्रिया विधि पर प्रकाश डाला जायेगा।  

धराचक्रम् — मूलपाठः-
अथ स्वस्थं सुखासीनं लोमशं मुमिसत्तमम् ।                 सुतजन्मा द्विजो भूयो नत्वा प्रोवाच सादरम् ।।
विप्र उवाच—
यत्र भूमिस्थितं द्रव्यं शल्यं तोयं च दैवतम्। कथं ज्ञानं भवेत्तस्य केनो पायेन लभ्यते ।।१।। श्रुतं नास्ति च यद्वित्तं दृष्टं नास्ति च यद् वसु।
तत्कथं लभ्यते स्वामिन् ! वद मे मुनिसत्तम ।।२।।
मुनिरुवाच—
साधु पृष्टं त्वया वत्स ! लोकानां भाग्यवर्धनम्। एतेषां लक्षणं वक्ष्ये येन ज्ञानं भवेन्नृणाम् ।।३।। श्रवणं गीतनादस्य वाद्यस्य श्रवणं तथा। प्रकाशो दृश्यते यत्र निशान्ते निश्चितं निधिः ।।४।। सर्पाणां दर्शनं चैव जायते यत्र नित्यशः। नकुलानां च सदनं सरठानां तथैव च ।।५।। दर्शनं खञ्जरीटानां प्रभाते यदि जायते । उदङ् मुखानां सायाह्ने तत्र स्यान्निश्चितं निधिः ।।६। सरीसृपाणां रक्तानां दर्शनं यत्र नित्यशः । पिपीलिकानां च तथा तत्र द्रव्यं न संशयः ।।७।। आरोप्य चतुरः पादान् यत्र श्वा मूत्रमुत्सृजेत् । चषाणां वसनं यत्र तदधो निश्चितं निधिः ।।८।। श्वेतपुष्पा च वृहती दृश्यते यत्र भूतले । तत्र द्रव्यं न सन्देहो ज्ञेयं देवेन रक्षितम् ।।९।। पद्मगन्धा धरा यत्र पुष्पतोयाभिषिञ्चने । सुश्वेतमधुरा स्निग्धा ज्ञेयं तत्र धनं ध्रुवम्।।१०।। नारीणां सुन्दरीणां च नित्यं स्वप्ने प्रदर्शनम् । यत्र श्वेता सवत्सा गौः श्वेतसर्पश्च मौक्तिकम् ।।११।। हरिद्रा तोयजानां च प्रभाते दर्शनं मुहुः । तत्रापि निश्चितं द्रव्यं ज्ञेयं लक्षणवेदिभिः।।१२।। स्निग्धा सुशर्करायुक्ता मृत्तिका लक्ष्यते यदि। सर्वे सकण्टका वृक्षा दृश्यन्तेऽण्डानि नित्यशः । यत्र दूर्वाङ्कुराढ्याभूस्तत्र तोयं न संशयः ।।१४।। देवानां दर्शनं यत्र विप्राणां दर्शनं तथा । यत्राग्निर्दृश्यते स्वप्ने गव्यानां दर्शनं तथा ।।१५।। तुलसी स्वयमुत्पन्ना यत्र तत्र च भूतले । निम्बाश्वत्थादिवृक्षाश्च तत्र देवो न संशयः ।।१६।। यत्रोषरप्रयुक्ता भूः श्रृगालाद्यैः समन्विता । वृक्षाः स्वयं विनश्यन्ति तत्र शल्यं न संशयः।।१७।। यत्र तैल प्रपूर्णोपि स्वयं दीपो विनश्यति । मन्दा ज्योतिर्हि दीपस्य दृश्यते यत्र भूतले।।१८।। चित्तमुद्वेग संयुक्तं जायते यत्र संस्थिते । नानाविघ्नयुता भूमिस्तत्र शल्यं न संशयः।।१९। फलितः पुष्पितो वृक्षो वन्ध्यास्त्री भग्नभाण्डकम् । तैलं तारागणश्चैव स्वप्ने शल्यस्य सूचकाः ।।२०।। जलप्रतरणं स्वप्ने श्रृगालादिकदर्शनम् । तत्र शल्यं वदेत् सत्यं तत्स्थानं च भयप्रदम्।।२१।। एवं ज्ञात्वा धनं शल्यं दैवतं जलमेव च। तत्र स्थाप्यं धराचक्रं द्रव्यशल्यादिसूचकम् ।।२२।। सूर्योदयादिष्टनाड्यो द्विघ्नाः शरविभाजिताः। युक्ताःस्पष्टार्कराश्यादौ स्फुटं लग्नं भवेद्ध्रुवम् ।।२३।। सार्धद्विघटिकामानमर्काल्लग्नं भवेदिह । चरे तन्नवमांशो यः स्थिरे तन्नवमादितः ।।२४।। द्विस्वभावे सुताद् ज्ञेयस्तदंशो मेरुसंज्ञकः । यत्रांशे संस्थितो मेरुस्तदादिद्वादशांशकाः।।२५।। ‘इलावृता’ख्यं ज्ञेयं, तदग्रे द्वादशांशकाः । ‘सुभद्राश्वा’ भिधं ज्ञेयं तदग्रे द्वादशांशकाः ।।२६।। ‘हरिवर्ष’ ततो ज्ञेयं तत्तुल्यं ‘किन्नरा’ ह्वयम् । ततो ‘भारत’ संज्ञं च ‘केतुमाला’ भिधं ततः ।।२७।। ‘रम्यका’ ख्यं ततो ज्ञेयं ‘हिरण्या’ ख्यं ‘कुरु’ न्तथा । विधोर्वषाणि ज्ञेयानि त्रीणि हर्यादिकानि च ।।२८।। त्रीणि वै रम्यकादीनि भानोः शेषाणि तद्द्वयोः । एवं देवविभागेषु दैत्यांशे व्यत्ययाद् वदेत्।।२९।। त्रयोदशोर्ध्वगा रेखा दश तिर्यग्गतास्तथा । कोष्ठानि तत्र जायन्ते शतान्यष्ठाधिकानि च ।।३०।। अधोऽधः क्रमतो लेख्यमङ्कानां नवकं बुधैः। दिने वृषादितो लेख्यं रात्रौ तु वृश्चिकादितः।।३१।। ईशानकोणमारभ्य यामद्वयमिनोदयात् । ततोयामद्वयं वह्निकाद् यामद्वयं ततः ।।३२।। नैर्ऋत्य कोणतो,वायुकोणाद् यामद्वयं तथा । एवं संस्थाप्य चक्रे तु ततः खेटान् प्रविन्यसेत् ।।३३।। यस्मिन्नंशे स्थिता ये च खेटाःस्युर्भास्करादयः । चन्द्रवर्षे यदार्केन्दू निधिर्ज्ञेयस्तदा ध्रुवम् ।।३४।। तौ सूर्यवर्षगौ शल्यं वाच्चं तत्र न संशयः । मिश्रवर्षे गतौ तौ चेद् देवता तत्र निश्चितम्।।३५।। सूर्यवर्षे यदा चन्द्रश्चन्द्रवर्षे यदा रविः। तत्र शून्यं विजानीयाल्लेशोऽपि नैव लक्ष्यते ।।३६।। स्व-स्ववर्षगतौ द्वौ चेत् शल्यं-द्रव्यंसविघ्नकम्।(स्वल्पंद्रव्यं च पाठान्तरम्)  स्वस्य वर्षे स्थितः सूर्यो मिश्रवर्षे निशाकरः ।।३७।। भिन्नभाण्डं वदेत्तत्र तुषकेशादिसंयुतम् । सूर्यवर्षे स्थितश्चन्द्रो मिश्रवर्षे दिवाकरः ।।३८।। धनं बहुविधं तत्र दृश्यते च तु लभ्यते। चन्द्रवर्षे दिवानाथो मिश्रवर्षे निशाकरः।।३९।। तत्र द्रव्यमलभ्यं स्याद्रक्षोभूतादि संयुतम् । स्वस्य वर्षे यदा चन्द्रो मिश्रवर्षे यदा रविः।।४०।। धनं च विद्यते तत्र दृश्यते नैव नैव च । उद्योगस्तत्र कर्तव्यो येन वै लभ्यते धनम् ।।४१।। एवं च निश्चयं कृत्वा स्थानं संचालयेद् बुधः। तदहं संप्रवक्ष्यामि स्वमतेनावधारय ।।४२।। यत्र चन्द्रः स्थिते चक्रे मेरुं तत्र नवेद्धिया । एवं सञ्चालिते चक्रे यत्र वै संस्थितः शशी।।४३।। तत्रैवास्ति ध्रुवं द्रव्यं,शुक्रेणैवं जलं वदेत् । एवं सूर्येण वक्तव्यं शल्यं नानाविधं ध्रुवम् ।।४४।। दैवतं गुरुणाप्येवं तत्र वाच्चं न संशयः । स्थिरांशे तु स्थितं तत्र चरांशे चलितं ध्रुवम् ।।४५।। द्विस्वभावांशके वाच्चं पूर्वापरविभागयोः। गतांशक प्रमाणेन भूमानं कल्पयेद्धिया ।।४६।। स्थिरांशे द्विस्वभावांशे द्विगुणं त्रिगुणं चरेत् । मेरु चन्द्रौ चरांशे चेज्जलाश्रयं विनिर्दिशेत् ।।४७।। द्रव्यभाण्डं वदेत् प्राज्ञो मेषाद्यंशे विधौ क्रमात् । ताम्रं,पाषाण भाण्डं च, गिरिपात्रं मदायसे ।।४८।। हेमपात्रं च पाषाणं,ताम्रं च पित्तलं तथा । आयसं मृणमयं कुण्डं पात्रमेवं विचिन्तयेत् ।।४९।। परमोच्चांशगे चन्द्रे गगनस्थं  तु सार्गलम् । अधिष्ठितं भवेद् द्रव्यं चन्द्राः खेटान्वितो यदि ।।५०।। यक्षेण रक्षिते सूर्ये वायुपुत्रेण भूमिजे । चन्द्रात्मजे पिशाचेन कुवेरेणामरार्चिते ।।५२।। चक्रेणाहिबलाख्येन स्वकुलैः स्थापितं धनम् । अदृष्टं चाश्रुतं वित्तं धराचक्रेण निश्चयेत् ।।५३।। स्वप्नादिभिरनुमितिं प्रत्ययार्थं तु कारयेत् । स्वप्नेस्वर्या विधानेन पश्चात् स्थानं तु शोधयेत् ।। ५४।।
विप्र उवाच—
किं विधानं प्रकर्त्तव्यं येन वै प्रत्ययो भवेत् । वद मे मुनिशार्दूल ! शिष्यो ऽहं तव सुव्रत ! ।।५५।।
मुनिरुवाच—
प्रणवं च ततो माया रमा स्वप्नेश्वरीति च । ङेऽन्तोनवार्णवाख्योऽयं मन्त्रः सर्वार्थसिद्धिदः।।५६।। ब्रह्मचर्यरतो मन्त्री हविष्याशी जितेन्द्रियः । भूशायी प्रजपेन्मन्त्रं लक्षमेकं यथोचितम् ।।५७।। अश्वत्थस्य च पत्रे वै विलिखे- न्मन्त्रमुत्तमम् । दूर्वया चाष्टगन्धेन पूजयित्वा विधानतः।।५८।। विन्दूषट-कोणवृत्तं च पद्यं चाष्टदलं ततः। त्रिरेखा भूगृहं चेदं यन्त्रं सर्वेप्सितप्रदम् ।।५९।। तद्यन्त्रं मूर्ध्निं विन्यस्य शयनं तत्र कारयेत् । यादृशं प्रवदेत् स्वप्ने तादृशं तत्र निर्दिशेत् ।।६०।। अन्यथा दुःखमाप्नोति खननं क्रियते यदि । देवशापमवाप्नोति नानाचिन्ता प्रजायते ।।६१।। गोप्यं ज्ञान मिदं प्रोक्तं न देयं यस्य कस्यचित् । श्रद्धायुक्ताय शिष्याय देयं वत्सरवासिने ।।६२।।

(इति लोमशसंहितायां त्रयोदशोत्थानेऽदृष्टाश्रुतवस्तु निर्णये धराचक्राख्यः नामः चतुर्विंशतितमोऽध्यायः।)

क्रमशः....



Comments