पुण्यार्कवास्तुमंजूषा-180

गतांश से आगे...
अध्याय तीस,भाग चार

(५)-परिवेशीय लक्षणों के आधार पर परीक्षण- हालाकि आजकल शहरी सभ्यता में जमीनों की जो स्थिति हो रही है,परिवेशीय, भूगर्भीय और धरातलीय स्थिति का कोई औचित्य नहीं रह गया है। कूड़े-कचरे से पाट कर बनाये गये भूखण्ड में न सही मिट्टी है,और न आसपास की प्राकृतिक व्यवस्था का आधार,जिसके सहारे जलपरीक्षण का सही निदान किया जा सके,फिर भी मिट्टी का रंग और स्वाद,तथा आसपास के पेड़-पौधे की स्थिति से काफीकुछ जानकारी मिल सकती है। इन्हीं तथ्यों को आधार बनाकर आचार्य वराहमिहिर ने अपनी वृहत्संहिता में जलपरीक्षण प्रयोग पर विशद चर्चा की है।आइये संहिता के मूल श्लोकों का मनन करें-
  
वृहत्संहितान्तर्गत- उदकार्गल प्रयोग-
धर्म्यं यशस्यं च वदाम्यतोऽहं दकार्गलं येन जलोपलब्धिः। पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः।।१।। एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात् । नानारस्त्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव।।२।। पुरुहुतानलमयनिर्ऋतिवरुणपवनेन्दुशङ्करा देवाः। विज्ञातव्या क्रमशः प्राच्याद्यानां दिशां पतयः।।३।। दिक्पतिसंज्ञाश्च शिरा नवमी मध्ये महाशिरानाम्नी । एताभ्योऽन्यः शतशो विनिसृता नामभिः प्रथिताः ।।४।। पातालादूर्ध्वशिरा शुभाश्चतुर्दिक्षु संस्थिता याश्च । कोणदिगुत्था न शुभाः शिरानिमित्तान्यतोवक्ष्ये ।।५।। यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् । सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ।।६।। चिह्नमपि चार्धं पुरुषे मंडूकः पाण्डुरोऽथ मृत्पीता । पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः।।७।। जम्ब्वाश्चोदगधस्तैस्त्रिभिः शिराधो नरद्वये पूर्वा। मुल्लोहगन्धिका पाण्डुराथ पुरषेऽत्र मण्डूकः।।८।। जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थः। तस्माद् दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ।।९।। अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः । मृद्भवति चात्र नीला दीर्धं कालं बहु च तोयम्।।१०।। पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे । पुरुषे सितोऽहिरश्माञ्जनोपमोऽधः शिरा सुजला।।११।। उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः। त्रिभिरम्बु भवति पुरुषै-स्त्रिभिरर्धसमन्वितैः पश्चात् ।।१२।। श्वेता गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा। पीता सिता ससिकता ततो जलं निर्दिशेदमितम्।।१३।। वल्मीकोप-चितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः। पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम्।।१४।। रोहित मत्स्योऽर्धनरे मृतकपिला पाण्डुरा ततः परतः। सिकता सशर्कराथ क्रमेण परतो भवत्यम्भः।।१५।। पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात्। पुरुषैस्त्रिभिरादेश्यं श्वेत गृहगोधिकार्धनरे।।१६।। सपलाशा वदरी चेद् दिश्यपरस्यां ततो जलं भवति । पुरुषत्रये सपादे पुरुषेऽत्र च डुण्डुभिश्चिह्नम्।।१७।। बिल्वोदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन। पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्धनरे च मण्डूकः।।१८।। अर्कोदुम्ब- रिकायां वल्मीको दृश्यते शिरा तस्मिन्। पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च।।१९।। आपाण्डुपीतिका मृद् गोरसवर्णश्च भवति पाषाणः। पुरुषाऽर्धे कुमुदनिभो दृष्टिपथं मूषको याति।।२०।। जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः। प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ।।२१।। मृन्नीलोत्पलवर्णा कापोता चैव दृश्यते तस्मिन्। हस्तेऽजगन्धिम- त्स्यो भवति पयोऽल्पं च सक्षारम्।।२२।। शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य। कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ।।२३।। आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि । अध्यर्धे तस्य शिरा पुरुषे ज्ञेया दिशि प्राच्याम्।।२४।। तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्तं । तत्रोदग्भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः।।२५।। श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुंकमाभोऽश्मा । अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते।।२६।। सकुशाशित ऐशान्यां वल्मीको यत्र कोविदारस्य । मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम् ।।२७।। प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही । रक्ता कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि ।।२८।। यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम् । वाच्यं पुरुषैः पञ्चभिरत्रापि भवंति चिह्नानि ।।२९।। पुरुषार्धे मण्डूको हरितो हरितालस- न्निभा भूश्च । पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभाम्बुवाहा।।३०।। सर्वेषां वृक्षाणामधःस्थितो दर्दुरो यदा दृश्यः। तस्माद्धस्ते तोयं चतुर्भिरर्धा- धिकैः पुरुषैः ।।३१।। पुरुषे तु भवति नकुलो नीला मृत्पीतिका ततः श्वेता । दर्दुरसमानरुपः पाषाणो दृश्यते चात्र ।।३२।। यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य । हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे।।३३।। कच्छपकः पुरुषार्थे प्रथमं चोद्भिद्यते शिरा पूर्वा । उदगन्या स्वादुजला हरितो ऽश्माऽधस्ततस्तोयम् ।।३४।। उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तो- यम् । परिहृत्य पञ्च हस्तान् अर्धाष्टमपौरुषे प्रथमम्।।३५।। अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलत्थ वर्णोऽश्मा। माहेन्दी भवति शिरा वहति सफेनं सदा तोयम्।।३६।। वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुश- दूर्वश्चेत्। पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्वा ।।३७।। सर्पावासः पश्चाद् यदा कदम्बस्य दक्षिणेन जलम् । परतो हस्त त्रितयात् षड्भिः पुरुषैस्तुरीयोनैः।।३८।। कौबेरी चात्र शिरा बहति जलं लोहगन्धि चाक्षोभ्यम् । कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ।।३९।। वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा । पश्चात् षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या ।।४०।। याम्येन कपित्थस्याऽहिसंश्रयश्चे- दुदग्जलं वाच्यम्। सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च।।४१।। कर्बुरकोऽहिः पुरुषे कृष्णा मृत्पुट- भिदपि च पाषाणः । श्वेता मृत्पश्चिमतः शिरा ततश्चोत्तरा भवति ।।४२।।  अस्मन्तकस्य वामे वदरो वा दृश्यतेऽहिनलयो वा । षड्भिरुदक् तस्य करैः सार्धे पुरषत्रये तोयम् ।।४३।। कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् । आदौ शिरा च याम्या पूर्वोत्तरतो द्वितीया च ।।४४।। वामेन हिरद्रत- रोर्वल्मीकश्चेत्ततो जलं पूर्वे । हस्तत्रितये पुरषैः सत्र्यंशैः पञ्चभिर्भवति ।।४५।। नीलो भुजगः पुरुषे मृत्पीता मरकतो पमश्चाश्मा । कृष्णा भूःप्रथमं वारुणी शिरादक्षिणे नान्या ।।४६।। जलपरिहीने देशे दृश्यन्तेऽनूपजानि चिह्नानि । वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ।।४७।। भार्ङ्गी विवृता दन्ती शूकरपादी च लक्ष्मणा चैव । नवमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ।।४८।। स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीप जलाः । सुषिरा जर्जरपत्रा रुक्षाश्च जलेन सन्त्यक्ताः ।।४९।। तिलकाम्रातक- वरुणकभल्लातकबिल्वतिन्तुकाङ्कोल्लाः । पिण्डारशिरीषांजनपरुषकः वञ्चु लाऽतिबलाः ।।५०।। एते यदि सुस्निग्धा वल्मीकैः परिवृतास्तस्तोयम् । हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य ।।५१।। अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र। तस्मिन् शिरा प्रदिष्ठा वक्तव्यं वा धनं तस्मिन् ।।५२।। कण्टक्यकण्टकानांव्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् । खात्वा पुरुष त्रितयं त्रिभागयुक्तं धनं वा स्यात् ।।५३।। नदति मही गम्भीरं यस्मिंश्चर- णाहता जलं तस्मिन् । सार्धेस्त्रिभिर्मनुष्यैः कौबेरी तत्र च शिरा स्यात् ।।५४।। वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।विज्ञातव्यं शाखातले जलं त्रिपुरुष खात्वा।।५५।। फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः। भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ।।५६।। यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः । तस्यास्तलेऽम्बु वाच्यंत्रिभिर्नरैरर्धपुरुषे च ।।५७।। खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे । तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषे वारि ।।५८।। यदि भवति कर्णि- कारः सितकुसुमः स्यात्पलाशवृक्षो वा । सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रय भवति।।५९।। ऊष्मा यस्यां धूमो वा तत्र वारि नरयुग्मे। निर्देष्टव्या च शिरा महता तोयप्रवाहेण।।६०।। यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति । स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ।।६१।। मरुदेशे भवति शिरा यदा तथातः परं प्रवक्ष्यामि । ग्रीवा करभाणामिव भूतलसंस्थाः शिरायान्ति ।।६२।। पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् । उत्तरगमना च शिरा विज्ञेया पञ्चभिःपुरुषैः।।६३।। चिह्नं दुर्दुरं आदौ मृत्कपिलातः परं भवे- द्धरिता भवति च पुरुषेऽधोऽश्मा तस्य तले वारि निर्देश्यम् ।।६४।। पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धः पञ्चमैर्हस्तैः। दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः।।६५।। प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च। दक्षिणतो बहति शिरा सक्षारं भूरि पानीयम्।।६६।। उत्तरतश्च करीरादहिनिलये दक्षिणे जलं स्वादु । दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः।।६७।। रोहीतकस्य पश्चादहिवासश्चेस्त्रिभिः करैर्याम्ये। द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा।।६८।। इन्द्रतरोर्वल्मीकः प्रग्दृश्यः पश्चिमे शिरा हस्ते । खात्वा चतुर्दशं नरान् कपिला गोधा नरे प्रथमे ।।६९।। यदि वा सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजंगगृहम् । हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु।।७०।। क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा । रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र।।७१।। वदरीरोहितवृक्षौ संपृक्तौ चेद्विना वल्मीकम् । हस्तत्रये- ऽम्बु पश्चात् षोडशभिर्मानवैर्भवति।।७२।। सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तरेणान्या । पिष्टनिभः पाषाणो मृच्छ्वेता वृश्चिकोऽर्धनरे ।।७३।। सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।अष्टादशभिः पुरुषैरैशानि बहुजला च शिरा ।।७४।। पीलुसमेता वदरी हस्तत्रयसमिते दिशि प्राच्याम्। विंशत्या पुरुषाणामशोष्यमंभोऽत्र सक्षारम् ।।७५।। ककुभकरीरावेकत्र संयुतौ यत्र ककुभबिल्वौ वा । हस्तद्वयेऽम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या ।।७६।। वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति । कपो मध्ये देयो जलमत्र नरैकर विंशत्या ।।७७।। भूमि कदम्बकयता वल्मीके यत्र दृश्यते दूर्वा । हस्तत्रयेण याम्ये नरैर्जलं पञ्चविंशत्या ।।७८।। वल्मीकत्रयमध्ये रोहितकपादपो यदा भवति । नाना वृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यं ।।७९।। हस्तचतुष्के मध्यात् षोडशभिश्चांगुलैरुद्गवारि । चत्वारिंशत्पुरुषान् खात्वाश्मातः शिरा भवति ।।८०।। ग्रन्थिप्रचरा यस्मिञ्छमी भवेदुत्तरेण वल्मीकः। पश्चात्पञ्चकरान्ते शताधसंख्यकैः सलिलम् ।।८१।। एकस्था पञ्च यदा वल्मीका मध्यमो भवेच्छेतः। तस्मिन् शिरा प्रद्ष्टा नरषष्ट्या पञ्चवर्जितया ।।८२।। सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ट्या। अर्धनरेऽहि प्रथमं सवालुका पीतमृत्परतः ।।८३।। वल्मीकेन परिवृत्तः श्वेतो रोहितको भवेद्यस्मिन् । पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु ।।८४।। श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः । नरपञ्चकसंयुतया सप्तत्याहि- र्नरार्धे च ।।८५।। मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम् । जम्बूवेतसपूर्वे ये पुरुषास्ते मरौ द्विगुणाः ।।८६।। जम्बूस्त्रिवृत्ता मूर्वा शिशुमारी सारिवा शिवा श्यामा । वीरुधयो वाराही ज्योतिष्मती च गरुडवेगा ।।८७।। सूकरिकमाषपर्णी व्याघ्रपदाश्चेति यद्यहेर्निलये । वाल्मीकादुत्तरतस्त्रि-भिः करैस्त्रिपुरुषे तोयम् ।।८८।। एतदनूपे वाच्चं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः । एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ।।८९।। एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना । तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ।।९०।। यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् । तत्रार्धप-ञ्चमैर्वारि मानवैः पञ्चभिर्यदि वा ।।९१।। स्निग्धतरुणां याम्ये नरैश्चतुर्भि- र्जलं प्रभूतं च । तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदैव वदेत् ।।९२।। नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गलानूपे । कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ।।९३।। उष्णा शीता च मही शीतोष्णांभस्त्रिभिर्नरैः सार्धेः । इन्द्रधनुर्मत्स्यो वा वल्मीको चतुर्हस्तात् ।।९४।। वल्मीकानां पंक्त्यां यद्यकोऽभ्युच्छ्रिताः शिरा तदधः। शुष्यति न रोहते वा सस्यं यस्यां च तत्रा-ऽम्भः ।।९५।। न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः । वटपिप्पल-समवाये तद्वद्वाच्यं शिरा चोदक् ।।९६।। आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः नित्यं स करोति भयं दाहं च समानुषं प्रायः ।।९७।। नैर्ऋत्य कोणे बालक्षयं वनिताभयं च वायव्ये । दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहाः कूपाः ।।९८।। सारस्वतेन मुनिना दकार्गलं यत्कृतं दवलोक्य। आर्याभिः कृतमेतद वृत्तैरपि मानवं वक्ष्ये ।।९९।। स्निग्धा यतः पादपगुल्म-वल्ल्यो निश्छिद्रपत्राश्च ततः शिरास्ति । पद्मक्षुरोशीरकुलाः सगुंड्राः काशाः कुशा वा नलिका नलो वा ।।१००।। खर्जूरजम्ब्वर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मवल्ल्यः । छत्रेभनागाः शतपत्रनीपाः स्युर्नक्तमालाश्च ससिन्दु- वाराः  ।।१०१।। विभीतको वा मदयन्तिका वा यत्राऽस्ति तस्मिन् पुरुषत्रये-ऽम्भः। स्यात्पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले पुरुषत्रयेऽम्भः।।१०२।। या मौञ्जकैः काशकुशैश्च युक्ता नीला च मृद्यत्र सशर्करा च । तस्यां प्रभूतं सुरसं च तोयं कृष्णाथवा यत्र च रक्तमृद्धा।।१०३।। सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति । आपाण्डुरा या लवणं प्रदिष्टं मिष्टं पयो नील-वसुन्धरायाम् ।।१०४।। शाकाश्वकर्णार्जुनबिल्वसर्जा श्रीपर्ण्यरिष्टाधवशिंशपाश्च। छिद्रैश्च पर्णेर्द्रुमगुल्मवल्ल्यो रुक्षाश्च दूरेऽम्बु निवेदयंति ।।१०५।। सूर्याग्निभ-स्मोष्ट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा । रक्तांकुराः क्षीरयुताः करीरा रक्ताधरा चेज्जलमश्मनोऽधः।।१०६।। वैदूर्यमुद्राम्बुदमेचकामा पाकोन्मुखोदु-म्बरसन्निभा वा। भृङ्गाञ्जनाभा कपिलाथवा या ज्ञेया शिला भूरिसमीपते या ।।१०७।। पारावतक्षौद्रघृतोपमा वा क्षौमस्य वस्त्रस्य च तुल्यवर्णा । या सौमवल्ल्याश्च समानरुपा साप्याश तोयं कुरुतेऽक्षयं च ।।१०८।। ताम्रैः समेता पृषतैर्विचित्रैरापाण्डुभस्मोष्ट्रखुरानुरुपा । भृङ्गोपगांगुष्ठिकपुष्पिका वा सूर्याग्निवर्णा च शिला वितोया ।।१०९।। चन्द्रातपस्फटिकमौक्तिकहेमरुपाया- श्चेन्द्रनीलमणिहिंगुलुका च नाभाः । सूर्योदयांशहरितालनिभाश्च याः स्युस्ताः शोभना मनिवचोऽत्र च वृत्तमेतत् ।।११०।। एता हृभेद्याश्च शिलाः शिवाश्च याक्षैश्च नागैश्च सदाभिजुष्टा । एषां च राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत्कादाचित्।।१११।। भेदं यदा नैति शिला तदानीं पालाशकाष्ठैः सह तिन्दुकानाम्। प्रज्वालयित्वानलमग्निवर्णा सुधाम्बुसिक्ता प्रविदारमेति ।।११२।। तोयं श्रृतं मोक्षकभस्मना वा यत्सप्तकृत्वः परिषेचनं तत् । कार्यं शरक्षारयुतं शिलायाः प्रस्फोटनं वह्निवितापितायाः।।११३।। तक्रकाञ्जिकसुरा सकुलत्था योजितानि बदराणि च तस्मिन् । सप्तरात्रमुषितान्यभितप्तां दारयन्ति हि शिलां परिषेकैः।। ११४।। निम्बं पत्रं त्वक् च नालं तिलानां सापामार्ग तिन्दुकं स्याद् गुडूची । गूमूत्रेण स्रावितः क्षार एषां षट्कृत्वोऽत- स्तापितो भिद्यतेऽश्मा ।।११५।। आर्कं पयो हुडुविषाणमषीसमेतं पारावताखु- शकृता च युतं प्रलेपः । टङ्कस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छि- तस्य न शिलासु भवेद्विघातः ।।११६।। क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक्छितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम्।।११७।। वापी प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः । तां चेदिच्छति सारदारुभि- रपां संपातमावारयेत् पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपार्श्वादिभिः ।। ११८।। ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः । कुरबकतालाशो-कमधूकैर्बकुलविमिश्रैश्चावृत्ततीराम्।।११९।। द्वारं च न नैर्वाहिकमेकदेशे कार्यं शिलासञ्चितवारिमार्गम् । कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांसुभि- रावपेत्तम् ।।१२०।। अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णः। कतकफल समायुक्तैर्योगः कूपे प्रदातव्यः।।१२१।। कलुषं कटुकं लवणं विरसं सलिलं यदि वा शुभगन्धि भवेत् । तदनेन भवत्यमलं सूरसं सुसुगन्धिगुणैरपरैश्च यतम् ।।१२२।। हस्तो मघानुराधापुष्यधनिष्ठोत्तराणि रोहिण्यैः । शतभिषगि- त्यारम्भे कूपानां शस्यते भगणः ।।१२३।। कृत्वा वरुणस्य बलिं वटवेत- सकीलकं शिरास्थाने। कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत्प्रथमम् ।।१२४।। मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा भौमं दकार्गलमिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात्।।१२५।।इति।
(नोट-अन्तिम श्लोक टीकाकार श्री बलदेव मिश्र प्रक्षिप्त है।)

क्रमशः.... 

Comments