गतांश से आगे....
क्रमशः...
अष्टम अध्याय
उपयोगी
स्तोत्र-मन्त्रादि
नवनाग मन्त्र—
ऊँ नवकुलाय
विद्महे विषदन्ताय धीमहि तन्नः सर्पः प्रचोदयात् ।।
नवनाग
स्तोत्र—
अनन्तं
वासुकिं शेषं पद्मनाभं च कम्बलम् । शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ।।
एतानि नवनामानि नागानां च महात्मनाम् । सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः
।।
सर्पगायत्री—
१. ऊँ
भुजंगेशाय विद्महे सर्पराजाय धीमहि तन्नो
नागः प्रचोदयात् ।
२. ऊँ
भुजंगाय विद्महे चक्षुः श्रोत्राय धीमहि तन्नः सर्पः प्रचोदयात् ।
३. ऊँ
तत्पुरुषाय विद्महे कद्रवंशाय धीमहि तन्नः सर्पः प्रचोदयात् ।
शिवपंचाक्षर
स्तोत्र—
नागेन्द्रहाराय
त्रिलोचनाय , भस्मांगरागाय महेश्वराय ।
नित्याय
शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ।।
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय ।।
शिवाय
गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय ।
श्री
नीलकण्ठाय वृषध्वजाय तस्मै शिकारय नमः शिवाय ।।
वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय
।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय ।।
यक्षस्वरुपाय
जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय
देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ।
पञ्चाक्षरमिदं
पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति
शिवेन सह मोदते ।।
।। इति श्री
शिवपंचाक्षर स्तोत्रम् श्री शिवार्पणमस्तु ।।
सर्पप्रार्थना—
ब्रह्मलोके
च ये सर्पाः शेषनाग पुरोगमाः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
विष्णुलोके
च ये सर्पाः वासुकि प्रमुखाश्चये ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
रुद्रलोके
च ये सर्पाः तक्षक प्रमुखास्थता ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
खांडवस्य
तथा दाहे स्वर्ग ये च समाधितः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
सर्पसत्रे
च ये सर्पाः आस्तिकेन च रक्षिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
प्रलये
च ये सर्पाः कर्कोट प्रमुखाश्च ये ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
धर्मलोके
च ये सर्पाः वैतरण्यां समाश्रिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
ये
सर्पाः पार्वतीयेषुदरीसंधिषु संस्थिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
ग्रामे
वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
पृथिव्यां
चैव ये सर्पाः ये सर्पाः बिलसंस्थिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
रसातले
च ये सर्पाः अनन्ताद्या महाबलाः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
ब्रह्मलोके
च ये सर्पाः शेषनाग पुरोगमाः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
विष्णुलोके
च ये सर्पाः वासुकि प्रमुखाश्चये ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
रुद्रलोके
च ये सर्पाः तक्षक प्रमुखास्थता ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
खांडवस्य
तथा दाहे स्वर्ग ये च समाधितः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
सर्पसत्रे
च ये सर्पाः आस्तिकेन च रक्षिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
प्रलये
च ये सर्पाः कर्कोट प्रमुखाश्च ये ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
धर्मलोके
च ये सर्पाः वैतरण्यां समाश्रिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
ये
सर्पाः पार्वतीयेषुदरीसंधिषु संस्थिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
ग्रामे
वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
पृथिव्यां
चैव ये सर्पाः ये सर्पाः बिलसंस्थिताः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
रसातले
च ये सर्पाः अनन्ताद्या महाबलाः ।
नमोऽस्तु
तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।
।। इति सर्पप्रार्थना ।।
मनसादेवी
मन्त्र— ऊँ ह्रीं तत्कारिणी मत्कारिणी विषहारिणी विषरुपिणी विषं हन हन
इन्द्रस्यवज्रेण नमः ।।
मनसादेवी
स्तोत्रम्—
महेन्द्र उवाच-
देवीं
त्वां स्तोतुमिच्छामि सा दीनां प्रवरां पराम् ।
परात्परां
च परमां नहि स्तोतुं क्षयोऽधुना ।।
स्तोत्राणां
लक्षणं वेदे स्वभावाख्यानतः परम् ।
न
क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ।।
शूद्रसत्त्वस्वरुपा
त्वं कोपहिंसाविवर्जिता ।
न
च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ।।
त्वं
मया पूजिता सा वी जननी च यथाऽदिति ।
दयारुप
च भगिनी क्षमारुपा यथा प्रसूः ।।
त्वया
में रक्षिताः प्राणाः पुत्रदारा सुरेश्वरी ।
अहं
करोमि त्वां पूज्यां मम प्रीतीश्च वर्द्धते ।।
नित्यं
यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।
तथाऽपि
तव पूजां वै वर्द्धयामि पुनः पुनः ।।
ये
त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां
मनसाख्यायां मासान्ते वा दिने दिने ।।
पुत्रपौत्रदयस्तेषां
वर्द्धन्ते च धनानि च ।
यशस्विनः
कीर्तिमन्तो विद्यावन्तो गुणान्विताः ।।
ये
त्वां न पूजयिष्यन्ति निन्दत्यज्ञानतोजनाः ।
लक्ष्मीहीना
भविष्यन्ति तेषां नागभयं सदा ।।
त्वं
स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमलाकला ।
नारायणांशो
भगवान् जरत्कारुर्मुनीश्वरः ।।
तपसा
तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं
रक्षणायैव तेन त्वं मनसाभिधा ।।
मनसादेवितुं
शक्ता चाऽऽमना सिद्धयोगिनी ।
तेन
त्वं मनसादेवीं प्रवदन्ति पुराविदः ।।
सत्त्वरुपा
च देवी त्वं शश्वत्सर्वानषेवया ।
यो
हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।।
इमं
स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् ।
नस्य
नागभयं नास्ति तस्य वंशोद्भवस्य च ।।
विषं
भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।
पञ्चलक्षजपेनैव
सिद्धस्तोत्रो भवेन्नरः ।।
सर्पशायी
भवेत्सोऽपि निश्चितं सर्पवाहनः ।।
।।
ऊँ श्री ब्रह्मवैवर्तमहापुराणे महेन्द्रकृतं मनसास्तोत्रं श्री मनसार्पणमस्तु ।।
राहुमन्त्रम्— ऊँ भ्रां भ्रीं भ्रौं सः ऊँ
भूर्भुवः स्वः ऊँ कयानश्चित्र आभुवदूती सदा वृधः सखा । कया सचिष्ठता वृता । ऊँ
स्वः भुवः भूः ऊँ सः भ्रां भ्रीं भ्रौं सः ऊँ रां राहवे नमः ।।
राहु कवचम्— १) ऊँ अस्य श्री राहु कवचस्तोत्र
महामन्त्रस्य चन्द्र ऋषिः अनुष्टुप छन्दः राहुः देवताः मम सर्वाभीष्टसिद्ध्यर्थे जपे / पाठे विनियोगः ।
ध्यानम्- प्रणमामि
सदा राहुं सर्पाकारं किरीटिनम् ।
सैहिकेयं करालास्यं
भक्तानामभयप्रदम् ।।
कवचम्— नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्थशरीरवान् ।।
नासिकां मे करालास्यः शूलपाणिः मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं में कण्ठनाशनः ।।
भुजगेशो भुजौ पातु नीलमाल्यः करौ मम ।।
पातु वक्षस्तपोमूर्तिः पातु कुक्षिं विधुन्तुदः
।
कटिं मे विकटः पातु उरु मे सूरपूजितः ।
स्वर्भानुः जानुनी पातु जंघे मे पातु चाप्यहिः
।।
गुल्फौ ग्रहाधिपः पातु पातु में भीषणाकृतिः ।
सर्वाण्यं मे पातु नीलचन्दनभूषितः ।।
राहुस्तोत्रमिदं नृणा सिद्धिदं पापनाशनम् ।
यो भक्त्या पठत्यनुदिनं नियतः शुचिस्सन् ।।
स कमानवाप्नोति कीर्तिमतुलां श्रियमृद्धिम् ।
आयुरोग्यमात्मविजयित्व महि प्रसादात् ।।
(नोट—इसे कवच के रुप में अंगस्पर्श करे अथवा
सिर्फ पाठ करे )
राहु कवचम्— २) ऊँ अस्य श्री
राहु कवचस्य कश्यप ऋषिः अनुष्टुप छन्दः राहुर्देवता राहु प्रीत्यर्थे जपे
विनियोगः ।।
ऊँ प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भूतनामभयप्रदम् ।।
नीलाम्बरः शिरः पातु ललाटं लोकविन्दितः ।
चक्षुषी पातु मे राहु श्रोत्रे त्वर्थशरीरवान् ।।
नासिकां मे करालास्यः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासुनूः कंठे मे कठिनांध्रिकः
।।
भुजंहेशो भुजै पातु नीलमाल्याम्बरः करौ ।
पातु वक्षस्थलं मंत्री पातु कुक्षिं विधुंतुदः ।।
कटिं में विकटः पातु उरु मे सुरपूजितः ।
स्वर्भानुः जानुनी पातु जंघे मे पातु जाड्यहा ।।
गुल्फौ ग्रहाधिपः पातु पादौ में भीषणाकृतिः ।
सर्वाण्यंगानि मे पातु नीलचन्दनभूषणः ।।
राहोरिदं कवचमीप्सितसिद्धिदं स्यात् ।
भक्त्या पठत्यनुदिनं नियतः शुचि सन् ।।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायुः ।
आरोग्यमात्मविजयं च हि तत्प्रसादात् ।।
।।
इति श्री पद्मपुराणे राहुकवचंसम्पूर्णम् ।।
राहुस्तोत्रम्— ऊँ भ्रां भ्रीं भ्रौं सः राहवे
नमः । ( राहुमन्त्र )
राहुदावनमंत्री
च सिंहिकाचित्तनन्दनः ।
अर्द्धकायः
सदा क्रोधी चन्द्रादित्यविमर्दनः ।।
रौद्रो
रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः ।
ग्रहराजा
सुधापायी राकातिथ्याभिलाषुकः ।।
कालदृष्टिः
कालरुपः श्रीकण्ठहृदयाश्रयः ।
विधुंतुदः
सैंहिकेयो घोररुपो महाबलः ।।
ग्रहपीडाकरो
दंष्ट्री रक्तनेत्रो महोदरः ।
पञ्चविंशति
नामानि स्मृत्वा राहुं सदा नरः ।।
यः
पठेत् महती पीडा तस्य नश्यन्ति केवलम् ।
आरोग्यं
पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ।।
ददाति
राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।
सततं
पठते यस्तु जीवेद्वर्षशतं नरः ।।
कायाहीनः
महाशक्तिः ग्रसते शशिभास्करौ ।
सैंहिकेयो
महावीर्यो राहुः प्रीतो भवेन्मम ।।
महाशिरो
महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतुश्चोर्ध्वकेशिश्च
पीडां हरतुं में शिखी ।।
राहुग्रहः
सदा क्रूरः सोमसूर्यस्य पीडकः ।
शान्त्यर्थं
तु मया दत्तः अर्घोऽयं प्रतीगृह्यताम् ।।
।। इति श्रीस्कन्दपुराणे राहुस्तोत्रम्
।।
केतुस्तोत्रम्— ऊँ प्रां प्रीं प्रौं सः केतवे
नमः ।
अनेकरुपवर्णैश्च
शतशोऽथ सहस्रशः ।
उत्पातरुपां
जगतां पीडां हरतु में तमः ।।
केतुः
कालः कलयिता धूम्रकेतुर्विवर्णकः ।
लोककेतुर्महाकेतुः
सर्वकेतुभयप्रदः ।।
रौद्रो
रुद्रपियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलालधूमसंकाशश्चित्रयज्ञोपवीतधृक्
।।
तारागणविमर्दी
च जैमिनेयो ग्रहाधिपः ।
पञ्चविंशति
नामानि केतोर्यः सततं पठेत् ।।
तस्य
नश्यन्ति बाधा च सर्वाः केतुप्रसादतः ।
धनधान्यपशूनां
च भवेद् वृद्धिर्नसंशयः ।।
।। इति केतुस्तोत्रम् ।।
केतुकवचम्— ऊँ
अस्य
कवचस्तोत्र
महामन्त्रस्य पुरन्दर ऋषिः अनुष्टुप छन्दः केतुः देवता मम सर्वाभिष्ट सिद्ध्यर्थे जपे / पाठे विनियोगः ।।
केतु
कराल वदनं चित्रवर्ण किरीटिनम् ।
प्रणमामि
सदा केतुं वज्राकारं ग्रहेश्वरम् ।।
चित्रवर्णः
शिरः पातु फालं में धूम्रवर्णकः ।
पातु
नेत्रे मंगलाक्षः श्रोत्रे मे रक्तलोचनः ।।
घ्राणं
पातु सुवर्णाभः चुम्बकं सिंहिकासुतः ।
पातु
कण्ठं च मे केतुः स्कन्दः पातु ग्रहाधिपः ।।
बाहू
पात्वसुरश्रेष्ठः कुक्षिं पातु महारोगः ।
भीमात्मा
मे कटिं पातुम यं पातु महासुरः ।।
ऊरु
पातु महाशीर्षाः जानुनी तीव्र कोपनः ।
पादौ
पातु च में शूरः सर्वांगं नरपीडकः ।।
य इदं
कवचं दिव्यं सर्व रोग विनाशनम् ।
सर्व
शत्रु प्रशमनं धारयेत्सुऽमृतो नरः ।।
।। इति केतुकवचम् ।।
क्रमशः...
Comments
Post a Comment